Shri Guru Ashtakam

शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||1||

कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम्
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||2
||

षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 3
||

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||4||

क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||5||

यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात्
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 6||

न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||7||

अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये
गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||8||